कीटाः पतंगा मशकाश्च वृक्षा जले स्थले ये विचरंति जीवाः
कार्यस्तस्मात्पौर्णमास्यां त्रिपुराय महोत्सवः
सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः
ब्रह्मोवाच यास्तिस्रस्तिथयः पुण्या अंतिके शुक्लपक्षके
अंतिपुष्करिणी संज्ञा सर्वपापक्षयावहा
तिथिष्वेतासु सः स्नानात्पूर्णमेव फलं लभेत्
चतुर्दश्यां सयज्ञाश्च देवा जंतून्पुनंति हि
ब्रह्मघ्नान्वा सुरापान्वा सर्वाञ्जंतून्पुनंति हि
रौरवं नरकं याति यावदिंद्राश्चतुर्दश
तेन पूर्णफलं प्राप्य मोदते विष्णुमंदिरे
न स्नानादि करोत्यद्धा स याति नरकं ध्रुवम्
सर्वान्पितॄन्समुद्धृत्य स याति परमं पदम्
दिनेदिनेऽश्वमेधानां फलमेति न संशयः 2.4.36.
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांऽभसा
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्
अथ वा कार्त्तिके मासि दिनत्रयनिषेवणात्
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
पुण्यं तत्राऽपि वैशेष्यं राकायां वर्ततेऽनघ
समाप्य सर्वकर्माणि विष्णुपूजां समाचरेत्
मंडपं तत्र कुर्वीत कदलीस्तंभमंडितम्
चित्रवस्त्रैः स्वलंकृत्य तत्र देवं प्रपूजयेत्
शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् 2.4.36.
मुहूर्तं वाऽपि शृणुयात्कथां पुण्यां दिनेदिने
पुण्यमासेऽथवा पुण्यतिथौ संशृणुयादपि
पुराणज्ञः शुचिर्दक्षः शांतो विगतमत्सरः
व्यासासनं समारूढो यदा पौराणिको भवेत्
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते
श्रद्धाभक्तिसमायुक्ता नाऽन्यकार्येषु लालसा
अभक्ता ये कथां पुण्यां शृण्वंति मनुजाऽधमाः