एकः प्रकार उत्पन्नो हृदयेऽस्य मुनीश्वराः
नेत्रं मे पद्मसदृशे पद्मार्थे त्वर्पयाम्यहम्
नेत्रमध्यात्तदुत्पाट्य महादेवस्तु पूजितः
राज्यं दत्तं त्रिलोक्यास्ते भव त्वं लोकपालकः
अन्यं वरय भद्रं ते वरं यन्मनसेप्सितम्
मद्भक्तिं तु समालंब्य ये द्विषंति जनार्दनम्
विष्णुरुवाच त्रैलोक्यरक्षाकरणं ममादिष्टं महेश्वर
शिव उवाच एतत्सुदर्शनं चक्रं महादैत्यनिकृंतनम्
अनेन सर्वदैत्यानां भगवन्कदनं कुरु
शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति ।।2.4.35.
महादेवतिथौ ब्राह्मे मुहूर्ते मणिकर्णिके
सहस्रकमलैस्तस्माद्भविष्यति मम प्रिया
अन्यं वरं प्रयच्छामि शृणु विष्णो वचो मम
उपवासं दिवा कुर्यात्सायंकाले तवार्चनम्
ग्राह्या तु हरिपूजायां रात्रिव्याप्ता चतुर्दशी
सहस्रकमलैर्विष्णुरादौ यैः पूजितो नरैः
सायं स्नात्वा पंचनदे बिंदुमाधवमर्चयेत्
रुद्रकांच्यां ततः स्नात्वा प्रणवेशं समर्चयेत्
रेतोदके ततः स्नात्वा केदारेशं समर्चयेत्
जाह्नव्यां च ततः स्नात्वा संगमेशं प्रपूजयेत् 2.4.35.
एवं तस्मै वरान्दत्त्वा ह्यंतर्धानं ययौ शिवः
कलौ दशसहस्राणि विष्णुस्त्यजति मेदिनीम्
कार्तिक्यां पूर्णिमायां तु कुर्यात्त्रैपुरमुत्सवम्
* त्रिपुरो नाम दैत्येंद्रः प्रयागे तप आस्थितः
देवासुरमनुष्येभ्यो न ते मृत्युर्भविष्यति
त्रिपुराख्यं विमानं तमारुह्य भुवनत्रयम्
त्रिपुरं घातयामास बाणेनैकेन शत्रुहा
तस्मिन्दिने सर्वदेवैर्दीपा दत्ता हराय च
विंशतिः सप्तशतकाः सहिता दीपवर्तयः
पौर्णमास्यां तु संध्यायां कर्तव्यस्त्रिपुरोत्सवः 2.4.35.