प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च
अतो देवेति मंत्रेण जुहुयात्तिलपायसम्
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती 2.4.34.
गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः
सतां समागमो भूयान्मम जन्मनिजन्मनि
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः
कार्तिके मासि कर्तव्यो विधिरेष हि नारद
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके 2.4.34.
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः
तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः
कथं विमुच्यते जंतुर्दुःखसंसारसागरात्
ब्रह्मोवाच शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्
वालखिल्यैः पुरा प्रोक्तं संक्षेपेण शृणुष्व तत्
वैकुण्ठेशस्तु वैकुण्ठाद्वाराणस्यां कृते युगे
रात्र्यां तुर्यांशशेषायां स्नात्वाऽसौ मणिकर्णिके
अतिभक्त्या पूजयितुं शिवया सहितं शिवम्
सहस्रसंख्यां कृत्वादावेकनाम्ना ततः परम्
एकं पद्मं पद्ममध्यान्निलीयाऽऽत्तं हरेण तु
इतस्ततस्तेन दृष्टं पद्मं तिष्ठति न क्वचित्
क्षणं विचार्य स हरिर्न मे नामभ्रमोऽभवत्
सहस्रपद्मसंकल्पः पूजार्थं तु कृतो मया
यद्यानेतुं गमिष्यामि भंगः स्यादासनस्य तु 2.4.35.