तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम्
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक्
नन्दश्चैव सुनंदश्च कुमुदः कुमुदाक्षकः 2.4.34.
तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम्
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम्
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत्
तस्यामुपवसेद्भक्त्या शांतः प्रणतमानसः
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान्
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च
अतो देवेति मंत्रेण जुहुयात्तिलपायसम्
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती 2.4.34.
गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः
सतां समागमो भूयान्मम जन्मनिजन्मनि
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः
कार्तिके मासि कर्तव्यो विधिरेष हि नारद
यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके 2.4.34.
विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः
क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः
तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते
ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः
कथं विमुच्यते जंतुर्दुःखसंसारसागरात्
ब्रह्मोवाच शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान्