पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोहरान्
तस्मान्नारद माहात्म्यं द्वादश्याः कार्तिकस्य च
द्वादश्या ह्युत्तमं पुण्यं माहात्म्यं यः पठेन्नरः
राजर्षिरम्बरीषोऽपि चकारैतद्व्रतं शुभम्
अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित्
कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः
कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम्
तस्मात्कार्तिकमासस्य चोद्यापनविधिं प्रभो
तच्छृणुष्व महाभक्त्या सविधानं समासतः
ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम्
दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना
द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक्
नन्दश्चैव सुनंदश्च कुमुदः कुमुदाक्षकः 2.4.34.
तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम्
तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम्
कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत्
तस्यामुपवसेद्भक्त्या शांतः प्रणतमानसः
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः
ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान्
प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च
अतो देवेति मंत्रेण जुहुयात्तिलपायसम्
होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती 2.4.34.
गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः
युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम
तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः
सतां समागमो भूयान्मम जन्मनिजन्मनि
प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव
द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः