अन्नमाश्रित्य तिष्ठंति संप्राप्ते हरिवासरे
तस्मात्सर्वप्रयत्नेन कुर्यादेकादशीव्रतम्
नरके नियतं वासः पितृभिः सह तस्य वै
दशमीवेधसंयुक्ता त्याज्या चैकादशी व्रते
तस्याः पुत्रशतं नष्टं तस्मात्तां वधजां त्यजेत्
रुक्मांगदोऽपि राजर्षिर्मोहिन्याः संगमेन च
इति प्रबोधोत्सवः अथ द्वादशीमाहात्म्यम् द्वादशी पुण्यदा प्रोक्ता सर्वाऽघौघविनाशिनी
किमिष्टैश्चैव पुत्रैश्च द्वादशी येन सेविता 2.4.33.
यत्फलं तदवाप्नोति द्वादश्यामेकभोजनात्
सिक्थेसिक्थे च वैकस्य कतिब्राह्मणभोजनम्
शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने दत्त्वा यत्फलमाप्नोति तत्फलं लभते नरः
पंचामृतैस्तु यो विष्णुं भक्त्या संस्नापयेद्द्विज
शुक्ले कार्तिकमासस्य द्वादश्यां परमोत्सवे स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा
द्वादश्यां कार्तिके मासि स्नानसंध्यादिकर्म च
यस्तस्यां सूपनैवेद्यं न ददाति नराधमः
तस्मात्सूपस्य नैवेद्यं द्वादश्यां कार्तिके शुभे
यस्तस्यां दंपतीनां तु भोजनं कुरुते नरः
धात्रीच्छायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् 2.4.33.
स्वयं च तत्र भुंक्ते यः सूपभक्ष्यादिकं तथा
एवं प्रातर्विधायाऽथ पूजां दामोदरस्य हि
तुलसीसन्निधौ कृत्वा पताकाध्वजशोभितम्
मुक्तादामभिराच्छन्नं कृत्वा मंडपमुत्तमम्
पंचरात्रोक्तमार्गेण गन्धपुष्पाक्षतादिभिः
विविधैः खाद्यनैवेद्यैर्जलेन च सुगंधिना
पुष्पाणि च विचित्राणि सुगन्धीनि बहूनि च
तुलस्याश्चापि धात्र्याश्च फलैश्चाऽपि प्रपूजयेत्
अभिषेकं विना सर्वपूजां कृत्वा विधानतः
कुर्याद्भक्तियुतो विप्र दद्याच्चैव फलादिकम् 2.4.33.
ततो वृद्धान्पितॄन्मातॄन् पूजयित्वा विधानतः
इत्येवं तु विधानेन यः कुर्याद्द्वादशीव्रतम्