तावद्गर्जति सेनानीर्गंगा भागीरथी क्षितौ
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि वै
अश्वमेधसहस्राणि राजसूयशतानि च
दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे
ऐश्वर्यं संततिं ज्ञानं राज्यं च सुखसंपदः
मेरुमंदरतुल्यानि पापान्युपार्जितानि च
उपवासं प्रबोधिन्यां यः करोति स्वभावतः
पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम्
शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् 2.4.33.
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम्
साश्चर्यं चैव प्रोत्साहमालस्यादिविवर्जितम्
नीराजनसमायुक्तमनिर्विण्णेन चेतसा
एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः
पुरुषसूक्तेन यो नित्यं कार्तिकेऽथार्चयेद्धरिम्
यथोक्तेन विधानेन पंचरात्रोदितेन वै
नमो नारायणायेति कार्तिके योर्चयेद्धरिम्
हरेर्नामसहस्रं च गजराजस्य मोक्षणम् 2.4.33.
युगकोटिसहस्राणि मन्वंतरशतानि च
कुले तस्य च ये जाताः शतशोथ सहस्रशः
कार्तिके पश्चिमे यामे स्तवं गानं करोति यः
नैवेद्यदानं हरये कार्तिके दिनसंक्षये
अक्षयं मुनिशार्दूल मालतीकमलार्चनम्
कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः
अत्रैव तु प्रकर्तव्यः प्रबोधस्तु हरेः खग
एकादश्यां ततो विष्णुश्चातुर्मास्ये प्रसुप्तवान्
अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु
इत्युक्त्वा शंखभेर्यादि प्रातःकाले तु वादयेत् 2.4.33.
उत्थापयित्वा देवेशं पूजां तस्य विधाय च
सर्वदैकादशी पुण्या विशेषात्कार्तिकी स्मृता