कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम्
वैयाघ्रपादगोत्राय सांकृत्य प्रवराय च 2.4.32.
वसूनामवताराय शंतनोरात्मजाय च
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः
पंचाऽहमपि कर्तव्यं नियमं च प्रयत्नतः
उत्तरायणहीनाय भीष्माय प्रददौ हरिः
ततः संपूजयेद्देवं सर्वपापहरं हरिम्
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च
चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम्
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः
दीपकं तु दिवा रात्रौ दद्यात्पंच दिनानि तु
एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च 2.4.32.
जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः
उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम्
सर्वमेतद्विधानं तु कार्यं पञ्च दिनानि तु
प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती
ततोऽनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः
अर्चित्वा तं हृषीकेशमेकादश्यां समासतः
गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती
संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्
पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता
शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः 2.4.32.
एवं सम्यक्समाप्यं स्याद्यथोक्तं फलमाप्नुयात्
मद्यपो यः पिबेन्मद्यं जन्मनो मरणांऽतिकम्
स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं धर्मवर्धनम्
अयोध्यायां पुरा कश्चिदतिथिर्नाम वै नृपः भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं ययौ
इत्थं कुर्याद्व्रतं नित्यं पञ्चकं भीष्मसंज्ञितम् पयोमूलफलाऽऽहारैर्हविष्यैर्व्रततत्परः
पौर्णमासीदिने प्राप्ते पूजां कृत्वा तु पूर्ववत्
यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पंचदशीनिरुद्धम्
मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम