सत्यव्रताय शुचये गांगेयाय महात्मने
सव्येनाऽनेन मंत्रेण तर्पणं सार्ववर्णिकम् ।। 2.4.32.
व्रतांगत्वात्पूर्णिमायां प्रदेयः पापपूरुषः
यः पुत्रार्थं व्रतं कुर्यात्सस्त्रीको भीष्मपञ्चकम्
अवश्यमेव कर्तव्यं तस्माद्भीष्मस्य पंचकम्
कार्तिकेयाय रुद्रेण पुरा प्रोक्तः सविस्तरात्
भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम्
सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम्
कार्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम्
अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु
क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः
दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः 2.4.32.
व्रतं चैतन्महापुण्यं महापातकनाशनम्
कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्विधानतः
प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती
यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात्
भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः
पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः
पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति
यत्किंचिद्ददते मर्त्यः पंचधातुप्रकल्पितम्
कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम्
वैयाघ्रपादगोत्राय सांकृत्य प्रवराय च 2.4.32.
वसूनामवताराय शंतनोरात्मजाय च
अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः
पंचाऽहमपि कर्तव्यं नियमं च प्रयत्नतः
उत्तरायणहीनाय भीष्माय प्रददौ हरिः
ततः संपूजयेद्देवं सर्वपापहरं हरिम्
स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च
चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम्
अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः