मधुपर्कं गृहाण त्वं वासुदेव नमोस्तु ते
गोधूलिसमये पूज्यौ तुलसीकेशवौ पुनः 2.4.31.
ईषद्दृश्ये भास्करे तु संकल्पं तु समुच्चरेत्
अनादिमध्यनिधन त्रैलोक्यप्रतिपालक
पार्वतीबीजसंभूतां वृंदाभस्मनि संस्थिताम्
पयोघटैश्च सेवाभिः कन्यावद्वर्धिता मया
एवं दत्त्वा च तुलसीं पश्चात्तौ पूजयेत्ततः
ततः प्रभातसमये तुलसीं विष्णुमर्चयेत्
पायसाऽऽज्यक्षौद्रतिलैर्जुह्यादष्टोत्तरंशतम् आचार्यं च समभ्यर्च्य होमशेषं समापयेत्
चतुरो वार्षिकान्मासान्नियमो येन यः कृतः
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो
रेवतीतुर्यचरणे द्वादशीसंयुते नरः 2.4.31.
ततो येषां पदार्थानां वर्जनं तु कृतं भवेत् ततः सर्वं समश्नीयाद्यद्यत्त्यक्तं व्रते स्थितम्
दंपतिभ्यां सहैवाऽत्र भोक्तव्यं च द्विजैः सह
ततो भुक्त्युत्तरं यानि गलितानि दलानि च
इक्षुदण्डं तथा धात्रीफलं कोलिफलं तथा
एषु त्रिषु न भुक्तं चेदेकैकमपि येन तु
ततः सायं पुनः पूज्याविक्षुदण्डैश्च शोभितैः
ततो विसर्जनं कृत्वा दत्त्वा दायादिकं हरेः मत्कृतं पूजनं गृह्य संतुष्टो भव सर्वदा
गच्छगच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर
एवं विसृज्य देवेशमाचार्याय प्रदापयेत्
प्रतिवर्षं तु यः कुर्यात्तुलसीकरपीडनम् इहलोके परत्राऽपि विपुलं च यशो लभेत् ।। 2.4.31.
एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम्
शरपंजरसुप्तेन भीष्मेण तु महात्मना कथिता पांडुदायादैः कृष्णेनाऽपि श्रुतास्तदा
ततः प्रीतेन मनसा वासुदेवेन भाषितम्
एकादश्यां कार्तिकस्य याचितं च जलं त्वया
तुष्टानि तव गात्राणि तस्मादद्यदिनावधि
तस्मात्सर्वप्रयत्नेन मम संतुष्टिकारकम्
कार्तिकस्य व्रतं कृत्वा न कुर्याद्भीष्मपंचकम्
अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके