नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया 2.4.30.
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम्
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम्
न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चालपेत्
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा
विधिर्मासोपवासस्य यथावत्परिकीर्तितः 2.4.30.
ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद
पूर्वाऽपराह्णगा ग्राह्या क्रमाद्दानोपवासयोः
अत्र कूष्मांडकोनाम हतो दैत्यस्तु विष्णुना
तस्मात्कूष्मांडदानेन फलमाप्नोति निश्चितम्
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम्
कार्तिके शुक्लनवमीमवाप्य विजितेंद्रियः
पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम्
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्
कनकस्य सुता पूर्वमेकादश्यां किशोरिका
तेन वैधव्यदोषेण निर्मुक्ताऽऽसीत्सुलोचना 2.4.31.
अवश्यमेव कर्तव्यः प्रतिवर्षं तु वैष्णवैः।। विधिं तस्य प्रवक्ष्यामि यथा सांगा क्रिया भवेत
विष्णोस्तु प्रतिमां कुर्यात्पलस्य स्वर्णजां शुभाम्
प्राणप्रतिष्ठां कृत्वैव तुलसीविष्णुरूपयोः
उपचारैः षोडशभिः पूजयेत्पुरुषोक्तिभिः
पुण्याहं वाचयित्वाथ नांदीश्राद्धं समाचरेत्
तुलसीनिकटे सा तु स्थाप्या चांऽतर्हिता पटैः
तुभ्यं दास्यामि तुलसीं सर्वकामप्रदो भव
तत आचमनीयं च त्रिरुक्त्वा च प्रदापयेत्