** नारद उवाच भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् 2.4.30.
ब्रह्मोवाच साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
सुराणां च यथा विष्णुस्तपतां च यथा रविः
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम्
सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम्
मासोपवासं कुर्वीत ज्ञात्वा देहबलाऽबलम्
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु
नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि
नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया 2.4.30.
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम्
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम्
न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चालपेत्
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा
विधिर्मासोपवासस्य यथावत्परिकीर्तितः 2.4.30.
ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद
पूर्वाऽपराह्णगा ग्राह्या क्रमाद्दानोपवासयोः
अत्र कूष्मांडकोनाम हतो दैत्यस्तु विष्णुना
तस्मात्कूष्मांडदानेन फलमाप्नोति निश्चितम्
स्वशाखोक्तेन विधिना तुलस्याः करपीडनम्
कार्तिके शुक्लनवमीमवाप्य विजितेंद्रियः
पूजयेद्विधिवद्भक्त्या व्रती तत्र दिनत्रयम्
ग्राह्यं त्रिरात्रमत्रैव नवम्याद्यनुरोधतः
धात्र्यश्वत्थौ य एकत्र पालयित्वा समुद्वहेत्