अपहृत्य परद्रव्यं पुण्यकर्म करोति यः 2.4.30.
नापकृत्य ऋणं यस्तु परस्य म्रियते नरः
बुद्धिदाताऽनुमन्ता च यश्चोपकरणप्रदः
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत्
स्वपतेरपि पुण्यस्य योषिदर्धमवाप्नुयात्
परहस्तेन दानादि कुर्वतः पुण्यकर्मणः
वृत्तिदो वृत्तिसंभोक्तुः पुण्यं षष्ठांशमुद्धरेत्
इत्थं ह्यदत्तान्यपि पुण्यपापान्यायांति नित्यं परसंचितानि
कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्क्रिया
तपोनिष्ठः पुरा दम्भी सती शुद्धप्रभावतः
** नारद उवाच भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् 2.4.30.
ब्रह्मोवाच साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ
सुराणां च यथा विष्णुस्तपतां च यथा रविः
श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम्
सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः
गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम्
मासोपवासं कुर्वीत ज्ञात्वा देहबलाऽबलम्
मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु
नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि
नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया 2.4.30.
वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम्
गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम्
न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चालपेत्
कृत्वा मासोपवासं तु यथोक्तविधिना नरः
ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम्
दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत्
एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश
ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम्
योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा