भोजनादेकपंक्तौ च विंशांशः पुण्यपापयोः 2.4.30.
यो वै यस्यान्नमश्नाति स भुंक्ते तस्य किल्बिषम्
परस्य स्तवनाद्यानादेकपात्रस्थभोजनात्
पुरुषो हरते सर्वं भार्याया औरसस्य च
भर्तुराज्ञाकरी नारी भर्तुरर्द्धं वृषं हरेत्
वर्षाऽशनं तु यो दत्ते तदर्द्धाघस्य भागयम्
पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा
उद्योगी चानुमन्ता च यश्चोपकरणप्रदः
यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति
व्यवहारात्तथा प्रीत्या नित्यं संभाषणादिभिः
संसर्गपुण्ययोगेन एकदन्तो द्विजाधमः 2.4.30.
नारद उवाच ईदृशं कार्तिकव्रतमल्पायासं महत्फलम्
धर्ममेवाऽनुतिष्ठंतः प्राप्नुवंति शुभां गतिम्
अधर्ममनुतिष्ठंतो यांति तेऽधोगतिं नराः
तयोः पालनकर्तारौ द्वावेव विधिना कृतौ
गुरुतल्पादयः पुत्राः कामस्य प्रथिता भुवि
ब्रह्मस्वहरणाद्याश्च एते नरकनायकाः
व्रतादिधर्मकृत्यं यैस्तैर्मुक्तास्ते हि कुर्वते
श्रद्धा मेधा विघातिन्यौ वर्तेते भुवि सर्वदा
न करोति सुदुर्मेधा येनांधं याति वै तमः
अध्यापनाद्याजनाद्वाऽप्येकपंक्त्यशनादपि 2.4.30.
एकासनादेकयानान्निश्वासस्यांगसंगतः
स्पर्शनाद्भाषणाद्वाऽपि परस्य स्तवनादपि
दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च
परस्य निंदां पैशुन्यं धिक्कारं च करोति यः
कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः
तस्य सेवाऽनुरूपं च द्रव्यं किंचिन्न दीयते
एकपंक्तिस्थितं यस्तु लंघयेत्परिवेषणम्
स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वाऽथ भाषते
धर्मोद्देशेन यो द्रव्यमपरं याचते नरः