श्रीकृष्ण उवाच इत्युक्त्वा गतवति नारदे स सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् 2.4.29.
एषु पापकरा नित्यं पच्यंते यमकिंकरैः
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम्
चतुराशीतिसंख्याकैः पृथग्भेदैरवस्थितान्
जातिभ्रंशकरं तद्वदुपपातकसंज्ञकम्
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम्
तत्पुण्योपचयादेते निर्हृता निरयाः खलु
धनेश्वरं यक्षलोकं यक्षश्चाऽभूत्स तत्र हि
सायंसंध्याविधिं कर्तुं जगाम जननीगृहम्
प्रयांत्यनेकाऽर्जितपातकानि व्रतस्य संदर्शयतोऽपि मुक्तिम्
स्वस्य कर्तुमसामर्थ्यं कथमेतत्कृतं भवेत्
द्रव्यं दत्त्वा ब्राह्मणाय गृह्णीयात्फलमुत्तमम्
शिष्याद्वा भृत्यवर्गाद्वा स्त्रीभ्यो वाऽऽप्ताच्च कारयेत्
एतदिच्छाम्यहं श्रोतुं कौतुकं मम वर्तते
येनोपायेन तद्वच्मि शृणुष्वैकमना द्विज
सुकृतं वा दुष्कृतं वा कृतमेकेन यत्कृते
द्वापरे वंशमध्ये तु कलौ कर्तैव केवलम्
अज्ञानाद्यच्च तारुण्ये बाल्ये तस्य फलं भवेत्
षण्मासं पापिसंगेन नरः पापी प्रजायते
भोजनादेकपंक्तौ च विंशांशः पुण्यपापयोः 2.4.30.
यो वै यस्यान्नमश्नाति स भुंक्ते तस्य किल्बिषम्
परस्य स्तवनाद्यानादेकपात्रस्थभोजनात्
पुरुषो हरते सर्वं भार्याया औरसस्य च
भर्तुराज्ञाकरी नारी भर्तुरर्द्धं वृषं हरेत्
वर्षाऽशनं तु यो दत्ते तदर्द्धाघस्य भागयम्
पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा
उद्योगी चानुमन्ता च यश्चोपकरणप्रदः
यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति
व्यवहारात्तथा प्रीत्या नित्यं संभाषणादिभिः