धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान्
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः
पुराऽवंतीपुरे कश्चिद्विप्र आसीद्धनेश्वरः
देशाद्देशातरं गच्छन्क्रयविक्रयकारणात्
महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा
कार्तिकव्रतिनस्तत्र नानादेशाऽऽगतान्नरान्
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्
कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान्
उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान्
ददर्श कौतुकाविष्टस्तत्रतत्र धनेश्वरः
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् 2.4.29.
तावत्कृष्णाऽहिना दष्टो विह्वलः स पपात ह
यमाज्ञया कुंभिपाके चिक्षिपुस्तं धनेश्वरम्
कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा
तावदभ्यागतस्तत्र नारदः प्राह सत्वरम् नारद उवाच नैवाऽयं निरयान्भोक्तुमर्हो ह्यरुणनंदन
यस्मादंतेऽस्य संजातं कर्म यन्निरयापहम्
ततः षडंशमाप्नोति पुण्यस्य नियतं नरः
कार्तिकव्रतिभिर्मासं तेषां पुण्यांशभागयम्
तस्मादकामपुण्यो हि यक्षयोनिस्थितो ह्ययम्
श्रीकृष्ण उवाच इत्युक्त्वा गतवति नारदे स सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा
ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् 2.4.29.
एषु पापकरा नित्यं पच्यंते यमकिंकरैः
अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम्
चतुराशीतिसंख्याकैः पृथग्भेदैरवस्थितान्
जातिभ्रंशकरं तद्वदुपपातकसंज्ञकम्
एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम्
तत्पुण्योपचयादेते निर्हृता निरयाः खलु
धनेश्वरं यक्षलोकं यक्षश्चाऽभूत्स तत्र हि
सायंसंध्याविधिं कर्तुं जगाम जननीगृहम्