ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम्
विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम्
तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम्
भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम्
मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन
प्रह्लादवचसा स्तंभेऽप्याविर्भूतो ह्यहं पुरा
तस्माद्युवामिमौ शापावनुऽभूय स्वयंकृतौ
गणावूचतुः ततस्तौ ग्राहमातंगावभूतां गंडकीतटे
कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः
ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा 2.4.28.
ततस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ
ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम्
तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा
अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः
तुलामकरमेषेषु प्रातःस्नायी सदा भव
ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज
एवं त्वमपि देहांते तद्विष्णोः परमं पदम्
तावज्जन्म व्रतादस्माद्विष्णुसंतुष्टिकारकात्
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
तया कलहया सार्द्धं वैकुण्ठभवनं गतौ ।। 2.4.28.
धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः
इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान्
इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः
पुराऽवंतीपुरे कश्चिद्विप्र आसीद्धनेश्वरः
देशाद्देशातरं गच्छन्क्रयविक्रयकारणात्
महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा
कार्तिकव्रतिनस्तत्र नानादेशाऽऽगतान्नरान्
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्
कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान्
उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान्