भीतं संमूर्च्छितं दृष्ट्वा चंडालं स द्विजाग्रणीः
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा
विमानशतसंकीर्णं देवर्षिशतसंकुलम्
ततो विष्णुः समालिंग्य स्वभक्तं सात्त्विकव्रतम्
विमानवरसंस्थं तं गच्छंतं विष्णुसन्निधिम्
वैकुण्ठभुवनं यांतं विष्णुदासं विलोक्य सः 2.4.27.
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमंदिरम्
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया
नैवाऽद्यापि स मे देवः प्रसन्नो जायते ध्रुवम्
तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति
आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः
तस्मादद्याऽपि तद्देशे सदा राज्यांऽशभागिनः
यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः
विष्णो भक्तिं स्थिरां देहि मनोवाक्काय कर्मभिः
मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम्
तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः 2.4.27.
तमालिंग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमंदिरम्
एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण
किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ
गणावूचतुः तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज
ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः
जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा
नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ
मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि
जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत्
मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु
यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी
जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः 2.4.28.