आरभद्वैष्णवं सत्रं कृत्वाऽऽचार्यं तु मुद्गलम्
ऋषिसंघसमाजुष्टं बह्वन्नं बहुदक्षिणम्
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम्
उपचारैः षोडशभिर्नृत्यगीतादिमंगलैः
नित्यं संस्मरणं विष्णोर्गच्छन्भुवि स्वपन्नपि
माघकार्तिकयोर्नित्यं विशेषनियमानपि
एवं समाराधयतोः श्रियः पतिं तयोश्च चोलेश्वरविष्णुदासयोः 2.4.26.
स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः
तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाऽकरोत्तदा
द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे
एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप
अहो नित्यं समभ्येत्य कः पाकं हरते मम
पुनः पाकं विधायाऽत्र भुज्यते यदि चेन्मया
यदि पाकं विधायैवं भोक्तव्यं तु मया न तत्
उपोषितोऽहं सप्ताऽहं तिष्ठाम्यत्र व्रतस्थितः
इति पाकं विधायाऽसौ तत्रैवाऽलक्षितः स्थितः
क्षुत्क्षामं दीनवदनमस्थिचर्माऽवशेषितम् 2.4.27.
विलोक्याऽन्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत
इत्थं वदंतं विप्राग्र्यमायांतं स विलोक्य च
भीतं संमूर्च्छितं दृष्ट्वा चंडालं स द्विजाग्रणीः
अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत्
तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः
अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा
विमानशतसंकीर्णं देवर्षिशतसंकुलम्
ततो विष्णुः समालिंग्य स्वभक्तं सात्त्विकव्रतम्
विमानवरसंस्थं तं गच्छंतं विष्णुसन्निधिम्
वैकुण्ठभुवनं यांतं विष्णुदासं विलोक्य सः 2.4.27.
स विष्णुरूपधृग्विप्रो याति वैकुण्ठमंदिरम्
दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया