न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः
अरुणाचलमाराध्य नवान्यंगानि लेभिरे 1.3.1.6.
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात्
बलिदत्तावनीदानजलधारानिरोधतः
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम्
क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः
ततश्चारुमुखोजातः प्रसादादरुणेशितुः
अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः
ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः
अथ नारद निर्दिष्टमवज्ञाफलमात्मनः
शिवभूमिरियं ख्याता परितो योजनद्वयम् 1.3.1.6.
सप्तर्षयः पुरा भूमौ शापदोषसमन्विताः
शापमोक्षं ददौ श्रीमान्सप्तर्षीणां महात्मनाम्
शोणाचलस्य निकटे दृश्यते पावनं शुभम्
अंतर्हितप्रार्थितार्थो दारुहस्तपुटे वहन्
दारुहस्तपुटे तीर्थे निचिक्षेप पिपासतः
अथ शोणाचलं प्राप्तः कथं वा दारुहस्तकः
लब्धपादश्च सहसा जगाम च निजालयम्
स्वयं गृहीत्वा चालोक्य ववंदेऽरुणपर्वतम्
विस्मयोत्फुल्लनयनैः शिवभक्तैर्महात्मभिः
वाली शक्रसुतः श्रीमाञ्छ्रंगादुदयभूभृतः 1.3.1.6.
आलुलोकेऽरुणगिरिं मध्ये देवनमस्कृतम्
पित्रा शक्रेण संगम्य चोदितः शोणपर्वतम्
नलः पूर्वं समभ्यर्च्य स्वसृष्टा मानवप्रियाः
इलः प्रविश्य सहसा गौरीवनमखंडितम्
वशिष्ठेन समादिष्टः शोणाद्रिं समपूजयत्
सोमोपदेशाद्भक्त्याथ सस्मारारुणपर्वतम्
लेभे च परमं स्थानमप्राप्यममरैरपि
न मुक्तिं प्राप योगेन मृगजन्मनि संगतः