सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम्
यन्नामस्मरणादेव देहिनो यांति सद्गतिम् ।। 2.4.25.
ग्राहग्रस्तो हि नागेंद्रो यन्नामस्मरणात्पुरा
यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि
ततः पुण्यक्षयेजाते यदा यास्यसि भूतलम्
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः
तत्राऽपि तव सान्निध्यं विष्णुर्यास्यति भूतले
तव जन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात्
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह
धर्मदत्त उवाच आराधयंति सर्वेऽपि विष्णुं भक्ताऽर्तिनाशनम्
विष्णुप्रीतिकरं तेषां किंचित्सान्निध्यकारकम्
सेतिहासकथां पुण्यां कथ्यमानां पुराभवाम्
कांचिपुर्यां पुरा चोलश्चक्रवर्ती नृपोऽभवत्
यस्मिञ्छासति भूचक्रं दरिद्रो वाऽपि दुःखितः
यस्याप्युन्नतयज्ञस्य ताम्रपर्ण्यास्तटावुभौ
तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः
प्रणम्य दण्डवद्भूमावुपविष्टः स तत्र वै 2.4.26.
देवार्चनार्थं पाणौ तु तुलस्युदकधारिणम्
स तत्राभ्येत्य विप्रर्षिर्देवदेवमपूजयत्
तुलसीपूजया तस्य रत्नपूजां पुरा कृताम्
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः
कियद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत्
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः
इत्थं चेद्वदसे विप्र विष्णुभक्त्याऽतिगर्वितः
यज्ञदानादिकं नैव विष्णोस्तुष्टिकरं कृतम् 2.4.26.
ईदृशस्याऽपि ते गर्व एष तिष्ठति भक्तितः
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति