तत्कृत्यं कुरु विप्रेंद्र कथं मुक्तिमियाम्यहम्
इत्थं विचिंत्य कलहावचनं द्विजाग्र्यस्तत्कर्मपाकभयविस्मयदुःखयुक्तः
प्रेतदेहस्थितायास्ते तेषु नैवाऽधिकारिता
त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम्
तस्मादाजन्मचरितं यन्मया कार्तिकव्रतम्
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत्
तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा
ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम्
कलहोवाच त्वत्प्रसादाद्द्विजश्रेष्ठ विमुक्ता निरयादहम्
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः
अथ सा तद्विमानाऽग्र्यं द्वाःस्थाभ्यामवरोपिता
तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः 2.4.25.
पुण्यशीलसुशीलौ च तमुत्थाप्याऽऽनतं द्विजम्
दीनाऽनुकम्पी सर्वज्ञो विष्णुव्रतपरायणः
आ बालत्वाच्छुभं त्वेतद्यत्त्वया कार्तिकव्रतम्
जन्मांतरशतोद्भूतं पापं तद्विलयं गतम्
हरिजागरणाद्यैश्च विमानमिदमास्थिता
दीपदानभवैः पुण्यैस्तेजःसारूप्यमास्थिता विष्णुसान्निध्यगा जाता त्वया दत्तैः कृपानिधे
त्वमप्यस्य भवस्यांते भार्याभ्यां सह यास्यसि
ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः
सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम्
यन्नामस्मरणादेव देहिनो यांति सद्गतिम् ।। 2.4.25.
ग्राहग्रस्तो हि नागेंद्रो यन्नामस्मरणात्पुरा
यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि
ततः पुण्यक्षयेजाते यदा यास्यसि भूतलम्
नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः
तत्राऽपि तव सान्निध्यं विष्णुर्यास्यति भूतले
तव जन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात्
धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः
प्रणम्य दण्डवद्भूमौ वाक्यमेतदुवाच ह