सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ।। 2.4.23.
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम्
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः
विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा
रात्र्यां तुर्यावशेषायां जगाम हरिमन्दिरम्
तेन दृष्टा समायाता राक्षसी भीमदर्शना
पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम्
अथ संस्मृत्य सा पूर्वजन्मकर्मविपाकजाम्
तत्कथं नु पुनर्विप्र प्रयास्याम्युत्तमां गतिम्
अतीव विस्मितो विप्रस्तदा वचनमब्रवीत्
धर्मदत्त उवाच केन कर्मविपाकेन त्वं दशामीदृशीं गता 2.4.24.
तस्याहं गृहिणी पूर्वं कलहाख्याऽतिनिष्ठुरा
न कदाचिन्मया भर्तुर्वचसाऽपि शुभं कृतम्
कलहप्रियया नित्यं मयोद्विग्नमना यदा
ततो गरं समादाय प्राणास्त्यक्ता मया द्विज
यमश्च मां तदा दृष्ट्वा चित्रगुप्तमपृच्छत
प्राप्नोत्वेषा च तत्कर्म शुभं वा यदि वाऽशुभम्
कलहोवाच चित्रगुप्तस्तदा वाक्यं भर्त्सयन्मामुवाच सः चित्रगुप्त उवाच अनया तु कृतं कर्म शुभं किंचिन्न विद्यते
मिष्टान्नं भुंजमानेयं न भर्तरि तदर्पितम्
भर्तुर्द्वेषात्तदाप्येषा नित्यं कलहकारिणी
पाकभांडे सदा भुंक्ते भुंक्ते चैका यतस्ततः 2.4.24.
भर्तारमपि चोद्दिश्य ह्यात्मघातः कृतोऽनया
अतश्चैषा मरुद्देशं प्रापितव्या भटैरियम्
ऊर्ध्वं योनित्रयं चैषा भुनक्त्वशुभकारिणी
क्षुतृड्भ्यां पीडिताऽऽविश्य शरीरं वणिजस्य च
तत्तीरं संश्रिता यावत्तावत्तस्य शरीरतः
ततः क्षुत्क्षामया दृष्टो मया हि त्वं द्विजोत्तम