नारद उवाच ततस्तु हृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुस्ते 2.4.22.
धात्री च मालती चैव तुलसी च नृपोत्तम
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम्
अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम्
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते
तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते
सर्वपापहरं नित्यं कामदं तुलसीवनम् 2.4.23.
दर्शनं नर्मदायास्तु गंगास्नानं तथैव च
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम्
तुलसीमंजरीभिर्यः कुर्याद्धरिहराऽर्चनम्
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा
तुलसीमंजरीयुक्तो यस्तु प्राणान्विमुंचति
विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम
तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत्
तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम्
जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम्
सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ।। 2.4.23.
नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः
धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या
तत्पुनर्ब्रूहि माहात्म्यं केन चीर्णमिदं शुभम्
ब्राह्मणो धर्मवित्कश्चिद्धर्मदत्तेति विश्रुतः
विष्णुव्रतकरः सम्यग्विष्णुपूजारतः सदा
रात्र्यां तुर्यावशेषायां जगाम हरिमन्दिरम्
तेन दृष्टा समायाता राक्षसी भीमदर्शना
पूजोपकरणैः सर्वैः पयोभिश्चाहनद्भयात् तेन वै हतमात्रे तु पापं तस्या ह्यगाल्लयम्