वृषस्तेन प्रहारेण परावृत्तो रणांगणात् 2.4.22.
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः
प्रदहद्रोदसी वेगात्पपात वसुधातले
रथात्कायः पपाताऽस्य नादयन्वसुधातलम्
वृन्दादेहोद्भवं तेजस्तद्गौर्यां विलयं गतम्
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् देवा ऊचुः महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात्
किंचिदन्यत्समुद्भूतं तत्र किं करवामहे
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्
यदिच्छया विश्वमिदं भवाऽभवौ तनोति मूलप्रकृतिं नताः स्म ताम्
या हि त्रयोविंशतिभेदशब्दिता जगत्यशेषे समधिष्ठिता परा 2.4.22.
यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यभीमोहपराभवादीन्
दारिद्यमोहदुःखानि न कदाचित्स्पृशंति तम्
इत्थं स्तुवंतस्ते देवास्तेजोमण्डलमास्थितम्
तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम् शक्तिरुवाच अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः
गौरी लक्ष्मी स्वरा चेति रजःसत्त्वतमोगुणैः
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप
ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः
ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति
नारद उवाच ततस्तु हृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुस्ते 2.4.22.
धात्री च मालती चैव तुलसी च नृपोत्तम
धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता
स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप
दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा
यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम्
अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम्
ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु
कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते
तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते