त्वमेवास्य मुने शक्तो जीवनाय मतो मम
तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम्
वृंदामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव च
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम
त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान्
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् 2.4.21.
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदान्वितोभस्मरजोवगुंठितः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वृन्दाग्निप्रवेशवर्णनंनामैकविंशोऽध्यायः
चकार मायया गौरीं त्र्यंबकं मोहयन्निव
रथोपरि च तां बद्धां रुदन्तीं पार्वतीं शिवः
गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः
ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः
ततो जज्ञे स तां मायां विष्णुना च प्रबोधितः
तस्याऽतीव महारौद्रं रूपं दृष्ट्वा महासुराः
ततः शापं ददौ रुद्रस्तयोः शुंभनिशुंभयोः
पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः
यावद्रुद्रश्च चिच्छेद तस्य बाणगणं जवात्
वृषस्तेन प्रहारेण परावृत्तो रणांगणात् 2.4.22.
ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः
प्रदहद्रोदसी वेगात्पपात वसुधातले
रथात्कायः पपाताऽस्य नादयन्वसुधातलम्
वृन्दादेहोद्भवं तेजस्तद्गौर्यां विलयं गतम्
प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् देवा ऊचुः महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात्
किंचिदन्यत्समुद्भूतं तत्र किं करवामहे
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्
यदिच्छया विश्वमिदं भवाऽभवौ तनोति मूलप्रकृतिं नताः स्म ताम्