पातिव्रत्यस्य भंगाय वृंदायाश्चाऽकरोन्मतिम्
अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह
कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम्
स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह
ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः
कुत्रचिन्नाऽलभच्छर्म गोपुराट्टालभूमिषु
तत्राऽपि साऽभ्रमद्बाला नाऽलभत्कुत्रचित्सुखम्
ततः सा भ्रमती बाला ददर्शाऽतीवभीषणौ
तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत्
ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात् 2.4.21.
मुनिस्तां विह्वलां दृष्ट्वा राक्षसाऽनुगतां तदा
तौ हुंकारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ
किंचिद्विप्तुमिच्छामि कृपया तन्निशामय
जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो
तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ
ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ
शिरःकबंधे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा
कमंडलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा
स कथं न वदस्यद्य वल्लभा मामनागसम्
येन देवाः सगंधर्वा निर्जिता विष्णुना सह 2.4.21.
त्वमेवास्य मुने शक्तो जीवनाय मतो मम
तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम्
वृंदामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः
अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा
कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव च
ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः
यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम
त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान्
इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् 2.4.21.
ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदान्वितोभस्मरजोवगुंठितः