अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः
जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः
बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत्
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि 2.4.20.
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव
आह्वयामास समरे तीव्राशनिसमस्वनः जलंधर उवाच युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव
यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर
तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव
स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान्
तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया
ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम्
ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः
तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः
एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः 2.4.20.
युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबली
महावृषभमारूढः स बभूव जलंधरः
अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत्
तावत्स्ववीर्यं मुमुचे जडांगश्चाऽभवत्तदा
जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे
जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः
तावद्ददर्श तं देवं सूपविष्टं समीपगम् पार्वत्युवाच विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम्
तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः विष्णुरुवाच तेनैव दर्शितः पंथा वयमप्यन्वयामहे
नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः नारद उवाच जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम्
अथ रुद्रश्च गंधर्वाऽनुगतः संगरे स्थितः 2.4.20.
ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा