कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः
तं पीडयमानमालोक्य वीरभद्रो महाबलः
कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः
ततो भूतान्यधावंत भक्षयंतिस्म दानवान्
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः 2.4.19.
हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा
जलंधरशरव्रातैर्नीहारपटलैरिव
गणेशं पंचभिर्विद्ध्वा शैलादिं नवभिः शरैः
कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः
ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः
तथैव नंदिनं वेगादपातयत भूतले
वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम्
ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम्
अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः
वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् 2.4.19.
स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि
नारद उवाच पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात्
अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः
रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः
दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः
जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे
शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः
बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः
दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा
खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत्
बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि 2.4.20.
न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव