ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम्
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः 1.3.1.6.
अपापः सर्वलोकानामाधिपत्यं च लब्धवान्
भास्करस्तेजसां राशिरसुरैरपि पीडितः
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम्
दक्षशापानलाक्रांतस्सोमः शिववचोबलात्
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः
शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम्
पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् 1.3.1.6.
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन्
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान्
न लंघयति किं त्वस्य प्रदक्षिणपरिक्रमैः
अरुणाचलमाराध्य नवान्यंगानि लेभिरे 1.3.1.6.
घ्राणं वाणी च लेभे सा शोणाचलनिषेवणात्
बलिदत्तावनीदानजलधारानिरोधतः
लेभे नेत्रं च पूतात्मा भास्कराख्ये गिरौ स्थितः
प्रतर्दनाख्यो नृपतिर्ग्रहीतुं देवकन्यकाम्
क्षणात्कपिमुखो जातो मंत्रिभिश्चोदितो नृपः
ततश्चारुमुखोजातः प्रसादादरुणेशितुः
अरुणाचलनाथस्यसंनिधौ ज्ञानदुर्बलः
ततो व्याघ्रमुखं दृष्ट्वा गंधर्वपरिचारकाः