सा युद्धभूमिमासाद्य भक्षयंती महासुरान्
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा
अथाभज्यत दैत्यानां सेना गणभयार्दिता भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः
त्रयस्ते वारयामासुर्गणसेनां महाबलाः
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः 2.4.18.
ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः
नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा
निशुम्भः कार्तिकेयस्य मयूरं पंचभिः शरैः
ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः
नंदीश्वरः शरव्रातैः कालनेमिमवध्यत
कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः
स शूलभिन्नहृदयो हताश्वो हतसारथिः
अथ शुम्भो गणेशश्च रथमूषकवाहनौ
गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा
ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् 2.4.19.
मूषकः शरभिन्नांगश्चचाल दृढवेदनः
ततो लंबोदरः शुम्भं हत्वा परशुना हृदि
कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः
तं पीडयमानमालोक्य वीरभद्रो महाबलः
कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः
ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः
ततो भूतान्यधावंत भक्षयंतिस्म दानवान्
नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ
छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा
प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः 2.4.19.
हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा
जलंधरशरव्रातैर्नीहारपटलैरिव