दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः
तदस्मद्रक्षणार्थाय जहि सागरनंदनम्
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः
जलंधरः कथं विष्णो न हतः संगरे त्वया
न मया निहतः संख्ये त्वमेनं जहि दानवम्
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ।। 2.4.18.
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम्
ततः शेषेण च तदा वज्रं च कृतवान्हरिः
हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः
गणाश्च समसज्जंत युद्धायाऽतित्वरान्विताः
अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः
प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसंकुलम्
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम्
वज्राहताचलशिरःशकलैरिव संवृता
वसासृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा 2.4.18.
युद्धे पुनः पुनस्तत्र मृतसंजीविनीबलात् शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम्
अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा
सा युद्धभूमिमासाद्य भक्षयंती महासुरान्
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा
अथाभज्यत दैत्यानां सेना गणभयार्दिता भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः
त्रयस्ते वारयामासुर्गणसेनां महाबलाः
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः
पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः 2.4.18.
ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः
अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः
नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा