निवेदितस्तदेशाय नंदिना प्रविवेश सः
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज
स्मशानवासिनो नित्यमस्थिभारवहस्य च
अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिका
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ।। 2.4.17.
सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान्
स तं खादितुमायांतं दृष्ट्वा राहुर्भयातुरः
स च राहुर्महाबाहो मेघगम्भीरया गिरा
ब्राह्मणं मां महादेव खादितुं समुपागतः
नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः
राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत् पुरुष उवाच क्षुधा मां वाधतेऽत्यंतं क्षुत्क्षामश्चाऽस्मि सर्वथा
किं भक्षयामि देवेश तदाज्ञापय मां प्रभो ईश्वर उवाच भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत्
दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः
त्वदर्चां ये न कुर्वंति नैव ते मे प्रियंकराः ।। 2.4.17.
* नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत्
राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले
ततः स राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः
गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत्
दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः
तदस्मद्रक्षणार्थाय जहि सागरनंदनम्
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः
जलंधरः कथं विष्णो न हतः संगरे त्वया
न मया निहतः संख्ये त्वमेनं जहि दानवम्
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः ।। 2.4.18.
तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम्
ततः शेषेण च तदा वज्रं च कृतवान्हरिः