तदा तवाऽपि दैत्येंद्र समृद्धिः संस्मृता मया
त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां धुवम्
अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः
यस्या लावण्यजलधौ निमग्नश्चतुराननः
वीतरागोऽपि हि यथा मदनारिः स्वलीलया 2.4.17.
यस्याः पुनः पुनः पश्यन्रूपं धाताऽपि सर्जने
अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा
एवमुक्त्वा तमामंत्र्य गते सति स दैत्यराट्
अथ संप्रेषयामास स दूतं सिंहिकासुतम्
कैलासमगमद्राहुः कुर्वञ्छुक्लेंदुवर्चसम्
निवेदितस्तदेशाय नंदिना प्रविवेश सः
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज
स्मशानवासिनो नित्यमस्थिभारवहस्य च
अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिका
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः ।। 2.4.17.
सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान्
स तं खादितुमायांतं दृष्ट्वा राहुर्भयातुरः
स च राहुर्महाबाहो मेघगम्भीरया गिरा
ब्राह्मणं मां महादेव खादितुं समुपागतः
नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः
राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत् पुरुष उवाच क्षुधा मां वाधतेऽत्यंतं क्षुत्क्षामश्चाऽस्मि सर्वथा
किं भक्षयामि देवेश तदाज्ञापय मां प्रभो ईश्वर उवाच भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत्
दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः
त्वदर्चां ये न कुर्वंति नैव ते मे प्रियंकराः ।। 2.4.17.
* नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत्
राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले
ततः स राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः
गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत्