नारद उवाच संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे
श्रीभगवानुवाच रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि 2.4.16.
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान्
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत्
विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान्
ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः
विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव
ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ
एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान्
अदेयमपि ते दद्मि यत्ते मनसि वर्तते ।। 2.4.16.
जलंधर उवाच यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे
तदा जलंधरपुरमगमद्रमया सह
जलंधरस्तु देवानामधिकारेषु दानवान्
देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंयुतम्
पातालभुवने दैत्यं निशुंभं स महाबलम्
देवगंधर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान्
एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः
न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा
एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च दिदृक्षयाऽहम्
संप्रहस्य तदा वाक्यं स्नेहपूर्वं च वै नृप
कुत आगम्यते ब्रह्मन्किचिद्दृष्टं त्वया प्रभो
तत्रोमया समासीनं दृष्टवानस्मि शंकरम्
योजनायुतविस्तीर्णे कल्पवृक्षमहावने
तद्दृष्ट्वा महदाश्चर्यं विस्मयो मेऽभवत्तदा