मां नियुज्य जगद्गुप्तौ परिमोह्य च मायया
किं करोमि जगन्मूर्त्तौ न्यस्तभारोऽस्म्यहं त्वयि
हर शम्भो हरेरार्तिमनुतापं समीक्ष्य सः 1.3.1.6.
अरुणाचलरूपेण तिष्ठामि वसुधातले
पूर्वस्मै विष्णवे तत्र वरो दत्तो मया पुरा तेजोमयमिदं रूपं प्रशांतं लोकरक्षणात्
नदीनां निर्झराणां च मेघमुक्तांभसामपि
अंधानां दृष्टिलाभेन पंगूनां पादसंचरैः
सर्वसिद्धिप्रदानेन सर्वव्याधिविमोचनैः
इत्युक्तांतर्दधे शम्भुर्हरिश्चैवारुणाचलम्
तमद्रिं परितो दृष्ट्वा सुरान्काननसंश्रयान् वेदान्सांगोपनिषदान्समंतान्मूर्तिधारिणः
ससर्ज दिव्यरूपाणां शतमप्सरसां कुलम्
स्नात्वा ब्रह्मसरस्यस्मिन्विष्णुः कमललोचनः 1.3.1.6.
अपापः सर्वलोकानामाधिपत्यं च लब्धवान्
भास्करस्तेजसां राशिरसुरैरपि पीडितः
निमज्ज्य विमले तीर्थे पावने ब्रह्मनिर्मिते
अशेषदैत्यविजयं लब्ध्वा मेरुप्रदक्षिणम्
दक्षशापानलाक्रांतस्सोमः शिववचोबलात्
अग्निर्ब्रह्मर्षिशापेन यक्ष्मरोगप्रपीडितः
शक्रो वृत्रं बलं पाकं नमुचिं जृंभमुद्धृतम्
पातकैश्च परिक्षीणस्तथा लोकांतमाश्रितः
अरुणाद्रिं समभ्यर्च्य विपापोऽभूत्सुराधिपः
लब्ध्वा चेन्द्रपदं शक्रः शतमप्सरसांकुलम् 1.3.1.6.
पुष्पमेघान्समादिश्य दिव्याभिः पुष्पवृष्टिभिः
शेषोऽपि शोणशैलेशं समभ्यर्च्य शिवाज्ञया
अन्ये नागाश्च गन्धर्वाः सिद्धाश्चाप्सरसां गणाः
देवैरशेषैर्दैत्यादीञ्जेतुकामैः समुद्यतैः
त्वष्ट्रा विरचिताकार आदित्यस्तेजसा तपन्
रथवाहाः पुनस्तस्य शक्तिहीनाः श्रमं गताः
नाशक्नोच्च दिवं गन्तुं सर्वगत्यांशुमालिनः
प्रीत्या तस्माद्विभोर्लेभे मार्गं व्योम्नो हयाञ्छुभान्