तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् नारद उवाच इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम्
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम्
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत्
देवानपि तथा युद्धे तत्राऽजीवयदंगिराः
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान्
तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम्
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ।। 2.4.15.
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः
ज्ञात्वा दैत्यहृतं द्रोणं धिषणो भयविह्वलः
पलायध्वं हवाद्देवा नाऽयं जेतुं क्षमो यतः
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा
देवान्विद्रावितान्दृष्ट्वा दैत्यैः सागरनंदनः
प्रविष्टे नगरीं दैत्ये देवाः शक्रपुरोगमाः
ततश्च सर्वेष्वसुरोऽधिकारेष्विंद्रादिकानां विनिवेशयत्तदा
नारद उवाच पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः
नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहंत्रे
रमा वल्लभायाऽसुराणां निहंत्रे भुजंगारियानाय पीतांबराय
नमो दैत्यसंतापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते
नारद उवाच संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः
इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः
सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः
तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः
तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे
श्रीभगवानुवाच रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि 2.4.16.
विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते
अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः
ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान्
ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत्