तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह
प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत् जातकर्माऽऽदिसंस्कारान्कुरुष्वाऽद्य जगद्गुरो
ब्रह्माणमग्रहीत्कूर्चे विधुन्वंस्तं मुहुर्मुहुः कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम्
तस्माज्जलंधर इति ख्यातो नाम्ना भविष्यति
अनेनैवैष तरुणः सर्वशस्त्रास्त्रपारगः
यत एष समुद्भूतस्तत्रैवांतं गमिष्यति
आमंत्र्य सरितां नाथं ब्रह्मांतर्धानमागमत्
अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा 2.4.14.
ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः
तेऽपि भूमंडलं याता निर्भयास्तमुपाश्रिताः
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट्
स शशंस समुद्रस्य मथनं देवकारितम्
स श्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राविशद्वराम्
दूतोऽहंप्रेषितस्तेन स यदाह शृणुष्व तत्
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः
अद्रयो मद्भयात्त्रस्ताः स्वकुक्षिस्थाः कृतास्तथा
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजाः पुरा 2.4.15.
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः
तद्गच्छ कथयस्वाऽस्य सर्वं मथनकारणम् नारद उवाच इत्थं विसर्जितो दूतस्तदेंद्रेणाऽगमद्भुवम्
तदिदं वचनं सर्वं दैत्यायाकथयत्तदा
दैत्यसेनासमायुक्तो ययौ योद्धुं त्रिविष्टपम्
तत्र युद्धे मृतान्दैत्यान्भार्गवस्तूदतिष्ठपत्
देवानपि तथा युद्धे तत्राऽजीवयदंगिराः
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान्
तव संजीविनीविद्या न वाऽन्यत्रेति विश्रुतम्
जीवयत्येव तच्छीघ्रं द्रोणाद्रिं त्वमपाहर
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् ।। 2.4.15.
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः