स्थानमेतद्धि नः श्रेष्ठं पृथिव्यां पुण्यवर्धनम्
कालोऽप्ययं महापुण्यो ब्रह्मघ्नाऽऽदिविशुद्धिकृत्
तथास्तु सुलभं त्वेतद्ब्रह्मक्षेत्रमितिप्रथम्
सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति 2.4.13.
यूयं च सर्वे ब्रह्माद्या निवसंतु मया सह
सर्वपापानि नश्यंति तीर्थराजस्य दर्शनात्
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम्
नारद उवाच एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्धानमागात्सवेधाः
167a कार्तिके तुलसीमूले योऽर्चयेद्धरिमीश्वरम्
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता
तेनाऽहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम्
कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते
पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम्
यावद्गतः शिवगृहं तावत्तत्र स दृष्टवान्
स पृष्टस्तेन कस्त्वं भोः क्व गतो जगदीश्वरः
ततः कुद्धो वज्रपाणिस्तं निर्भर्त्स्य वचोऽब्रवीत्
अतस्त्वां हन्मि वज्रेण कस्ते त्राताऽस्ति दुर्मते
तेनास्य कण्ठो नीलत्वमगाद्वज्रं च भस्मताम् 2.4.14.
दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत्
त्रिपुरघ्नाय शर्वाय नमोऽधंकनिषूदिने
विरूपायाऽतिरूपाय बहुरूपाय शंभवे
कालांतकाय कालाय कालभोगिधराय च
संहरन्नयनज्वालां त्रिलोकीदहन क्षमाम्
वरं वरय भो ब्रह्मन्प्रीतः स्तुत्याऽनया तव
अग्निरेष शमं यातु भालनेत्रसमुद्भवः
ईश्वर उवाच पुनः प्रवेशमायाति भालनेत्रे कथं शिखी
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे
तावत्स बालरूपत्वमगात्तत्र रुरोद च 2.4.14.
स्वर्गाद्याः सत्यलोकांतास्तत्स्वनाद्बधिरीकृताः