तावत्सा विह्वलाऽपश्यद्विमानं यातमंबरात्
कार्तिकव्रतपुण्येन मत्सान्निध्यं गताऽभवत्
आगतोऽहं गणाः सर्वे यातास्तेऽपि मया सह
पिता ते देवशर्माऽभूत्सत्राजिदभिधो ह्ययम्
कार्तिकव्रतपुण्येन बहु मत्प्रीतिदायिनी
तस्मादयं कल्पवृक्षस्तवांगणगतः शुभे 2.4.13.
कदाचिदपि तेन त्वं मद्वियोगं न यास्यसि सत्योवाच मासानां तु कथं नाम स मासः कार्तिको वरः
प्रियस्ते देवदेवेश कारणं तत्र कथ्यताम् श्रीकृष्ण उवाच साधु पृष्टं त्वया कांते शृणुष्वैकाग्रमानसा
पृथोर्वैन्यस्य संवादं महर्षेर्नारदस्य च
इन्द्रादिलोकपालानामधिकाराञ्जहार ह
सुवर्णाद्रिगुहादुर्गसंस्थितास्त्रिदशादयः
हृताधिकारास्त्रिदशा मया यद्यपि निर्जिताः
ज्ञातं तत्तु मया देवा वेदमन्त्रबलान्विताः
इति मत्वा ततो दैत्यो विष्णुमालक्ष्य निद्रितम्
नीतास्तु तेन ते वेदास्तद्भयात्ते निराक्रमन्
तान्मार्गमाणः शंखोऽपि समुद्रांतर्गतो भ्रमन् अथ देवैः स्तुतो विष्णुर्बोधितस्तानुवाच ह 2.4.13.
ऊर्जस्य शुक्लैकादश्यां भवद्भिः प्रतिबोधितः
वेदाः शंखहृताः सर्वे तिष्ठंत्युदकसंस्थिताः
अद्यप्रभृति वेदास्तु मंत्रबीजसमन्विताः
कालेऽस्मिन्ये प्रकुर्वंति प्रातःस्नानं नरोत्तमाः
अद्यप्रभृत्यहमपि भवामि जलमध्यगः
कातिकव्रतिनां चेंद्र रक्षा कार्या त्वया सदा खात्पपात जले विंध्यवासिनः कस्य पश्यतः
हत्वा शंखासुरं विष्णुर्बदरीवनमागमत्
विष्णुरुवाच जलांतरविशीर्णांस्तान्यूयं वेदान्प्रमार्गथ तावत्प्रयागं तिष्ठामि देवतागणसंयुतः
उद्धृताश्च सबीजास्ते वेदा यज्ञसमन्विताः
स स एव ऋषिर्जातस्तत्तत्प्रभृति पार्थिव
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन्
अयजद्वाजिमेधेन देवर्षिगणसंयुतः
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव
स्थानेऽस्मिन्द्रुहिणो वेदान्नष्टान्प्राप पुनस्त्वयम्