पूजयंति नरा ये वै ते वै वैकुण्ठगामिनः
दशम्यां वाऽथ द्वादश्यां पौर्णमास्यामथाऽपि वा ।। 2.4.12.
सर्वोपस्करसंयुक्तो वृद्धबालैश्च संयुतः
चूतैर्बकैस्तथाऽश्वत्थैः पिचुमंदैः कदंबकैः
तत्र गत्वा महाप्राज्ञ पुण्याऽहं कारयेत्पुरा
वेदिकां चतुरस्रां च हस्तमात्रायतां शुभाम्
उपवेशाय देवस्य ह्यलं कार्यं तु धातुभिः
मेखलात्रयसंयुक्तं पिप्पलच्छदसंयुतम्
पश्चात्स्नात्वा ततो जप्त्वा देवपूजां समाचरेत्
पायसाऽऽज्यगुडसूपपालाशसमिधा तथा
धात्री शांतिस्तथा कांतिर्माया प्रकृतिरेव च
इंदिरा लोकमाता च कल्याणी कमला तथा 2.4.12.
प्रज्ञां मेधां च सौभाग्यं विष्णुभक्तिं च देहि मे
बलिप्रदानकाले तु ये कुर्वंति प्रदक्षिणम् 2.4.12.
तस्मात्त्वं कुरु विप्रेंद्र धात्रीस्नानं हि यत्नतः 2.4.12.
धात्रीफलकृतां मालां कंठस्थां यो वहेन्नहि 2.4.12.
धात्रीछायां समाश्रित्य कार्तिकेऽन्नं भुनक्ति यः
हर्षोत्फुल्लाऽऽनना सत्या वासुदेवमथाऽब्रवीत्
दानं व्रतं तपो वाऽपि किं नु पूर्वं कृतं मया
येनाऽहं मर्त्यजा देव तवांगार्द्धहराऽभवम् तवाऽहं वल्लभा जाता तद्वदस्व ममाऽखिलम्
पुण्यव्रतं कृतवती तत्सर्वं कथयामि ते
आत्रेयो देवशर्मेति वेदवेदांगपारगः
अपुत्रः स स्वशिष्याय चंद्रनाम्ने ददौ सुताम्
तौ कदाचिद्वनं यातौ कुशेध्माहरणार्थिनौ
स्वस्वपुण्य प्रभावेन विष्णुलोकं गतावुभौ
पितृभर्तृजदुःखार्ता कारुण्यं पर्यदेवयत् 2.4.13.
तयोश्चक्रे यथाशक्ति पारलौकीं ततः क्रियाम्
व्रतद्वयं तया सम्यगाजन्ममरणात्कृतम्
इत्थं गुणवती सम्यक्प्रत्यब्द व्रतिनी ह्यभूत्
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तदा