धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः
ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान् 2.4.12.
एवंकृते व्रते विप्र कार्तिके हरिवल्लभे
हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात्
भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत्
शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये
तस्मात्सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत्
कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत्
धात्रीछायां समाश्रित्य दीपमालार्पणं नरः
राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः
धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके
संपूर्णे कार्तिके यस्तु संपूज्यामलकीं शुभाम् पश्चात्स्वयं तु भुंजीत न श्रीस्तस्य क्षयं व्रजेत् ।। 2.4.12.
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने
धात्रीफलविलिप्तांगो धात्रीफलसमन्वितः
धात्रीफलानि यो नित्यं वहते करसंपुटे
श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः
नवम्यां दर्शे सप्तम्यां संक्रांतौ रविवासरे
धात्रीछायां समाश्रित्य कुर्य्यात्पिंडं त यो नरः
मूर्ध्नि पाणौ मुखे चैव बाह्वोः कंठे तु यो नरः
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।। तावत्तस्य शरीरे तु प्रीत्या लुंठति केशवः
धात्रीफलं च तुलसी मृत्तिका द्वारकोद्भवा
यावद्दिनानि वहते धात्रीमालां कलौ नरः 2.4.12.
मालायुग्मं वहेद्यस्तु धात्रीतुलसिसंभवम्
धात्रीछायां गतो यस्तु द्वादश्यां पूजयेद्धरिम्
स्वयं च तत्र भुंक्ते यः सूपभक्षादिकं तथा
तुलस्याश्चैव धात्र्याश्च फलैः पत्रैर्हरिं यजेत्
तुलसी धात्रीयुक्ता हि सिक्ते सति च कार्तिके
धर्मदत्तो द्विजः पूर्वं यथा मुक्तिमवाप ह
चातुर्मास्ये न सेव्या सा इत्युक्तं भवता पुरा
तद्दिनाऽऽरभ्य सा सेव्या दैवे पित्र्ये च कर्मणि