दृष्ट्वा ऋषिगणान्हंतुं कृतेच्छः प्राणिघातकः
अथोवाच द्विजान्नत्वा भवद्भिः क्रियतेऽत्र किम् 2.4.12.
विश्वामित्र उवाच सर्वेषामेव मासानां कार्तिकः श्रेष्ठ उच्यते
कार्तिके मासि यः कुर्यात्स्नानं दानं च पूजनम्
व्याधप्रयुक्तमाकर्ण्य धर्मं च ऋषिणा द्विजः
विश्वामित्रं प्रणम्याथ स्ववृत्तांतं निवेद्य च
विस्मितो गाधिपुत्रस्तु व्याधश्चैव विशेषतः
तस्मात्सर्वप्रयत्नेन कार्तिके केशवाऽग्रतः
मूषकोऽपि च दुर्योनेर्मुक्त ऊर्जकथाश्रुतेः
धात्रीछायां समाश्रित्य वनभोजनमाचरेत् कृत्वा कर्माणि नित्यानि माधवं पूजयेत्ततः
धात्रीछायां समाश्रित्य हरौ भक्तिसमन्वितः
ततस्तु ब्राह्मणान्भक्त्या भोजयेद्ब्रह्मवित्तमान् 2.4.12.
एवंकृते व्रते विप्र कार्तिके हरिवल्लभे
हरेर्नार्पितभोगाच्च भोजने सूर्यदर्शनात्
भोजनावसरे चान्यस्पर्शदोषस्तु यद्भवेत्
शुद्धस्यापि तथा त्यागात्पुण्यकाले हरिप्रिये
तस्मात्सर्वप्रयत्नेन धात्र्यां भोजनमाचरेत्
कार्तिके मासि वै विप्रो धात्रीमालां तु यो वहेत्
धात्रीछायां समाश्रित्य दीपमालार्पणं नरः
राधादामोदरौ पूज्यौ तुलस्यधो विशेषतः
धात्रीछायातले येन सकृद्भुक्तं तु कार्तिके
संपूर्णे कार्तिके यस्तु संपूज्यामलकीं शुभाम् पश्चात्स्वयं तु भुंजीत न श्रीस्तस्य क्षयं व्रजेत् ।। 2.4.12.
यः कश्चिद्वैष्णवो लोके धत्ते धात्रीफलं मुने
धात्रीफलविलिप्तांगो धात्रीफलसमन्वितः
धात्रीफलानि यो नित्यं वहते करसंपुटे
श्रीकामः सर्वदा स्नानं कुर्यादामलकैर्नरः
नवम्यां दर्शे सप्तम्यां संक्रांतौ रविवासरे
धात्रीछायां समाश्रित्य कुर्य्यात्पिंडं त यो नरः
मूर्ध्नि पाणौ मुखे चैव बाह्वोः कंठे तु यो नरः
यावल्लुठति कण्ठस्था धात्रीमाला नरस्य हि ।। तावत्तस्य शरीरे तु प्रीत्या लुंठति केशवः