एवं चिंतयतां तेषां वागुवाचाऽशरीरिणी
अस्य वै स्मरणादेव लभेद्गोदानजं फलम्
तस्मात्सर्वप्रयत्नेन सेव्या आमर्दकी सदा 2.4.12.
तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः
शाखासु सवितारश्च प्रशाखासु च देवताः
प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः
अतः सा पूजनीया च सर्वकामार्थसिद्धये नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः
तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम्
कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके
यत्किंचित्कुरुते पुण्यं धात्रीछायासु मानवः
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
अयोध्यानगरे कश्चिद्वैश्यश्चासीद्विजोत्तम 2.4.12.
भिक्षया चोदराग्निं स शमयामास नारद
भिक्षाप्तचणकान्गृह्य धात्रीछायामगात्किल
केचिदुर्वरितास्तेपु चणकास्तत्र नारद
तेन पुण्यप्रभावेन राजाऽऽसीद्धनिकः क्षितौ
धात्रीवने मुनिश्रेष्ठ सर्वकामार्थसिद्धये यः शृणोति स पापेभ्यो मुच्यते द्विजसूनुवत्
नारद उवाच कोऽभूद्द्विजसुतो ब्रह्मन्किं पापं कृतवान्पुरा
देवशर्मेति विख्यातो वेदवेदांगपारगः
इदानीं कार्तिको मासो वर्तते हरिवल्लभः
तुलसीपुष्पसहितां कुरुपूजां हरेः सुत 2.4.12.
एवं पितुर्वचः श्रुत्वा पुत्रः क्रोधसमन्वितः
इति पुत्रवचः श्रुत्वा सक्रोधः प्राह तं सुतम्
मूषको भव दुर्बुद्धे वने वृक्षस्य कोटरे
दुर्योनेर्मम मुक्तिः स्यात्कथं तद्वद मे गुरो
यदोर्ज्जव्रतजं पुण्यं शृणोषि हरिवल्लभम्
स पित्रा चैवमुक्तस्तु तत्क्षणान्मूषकोऽभवत्
एकदा कार्तिके मासि विश्वामित्रः सशिष्यकः
कथयामास माहात्म्यं शिष्येभ्यश्चोर्ज्जसंभवम्