भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् 2.4.11.
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत्
भोजनं कुरुते यस्तु स वैकुंठमवाप्नुयात्
कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी
ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत्
आमर्दकीमहावृक्षः सर्वपापप्रणाशनः
पूजयेत्तत्र देवेशं राधया सहितं हरिम्
सुवर्णरजतैर्वापि फलैरामलकैस्तथा
साष्टांगं प्रणतो भूत्वा प्रार्थयेत्परमेश्वरम्
ब्राह्मणान्भोजयेत्पश्चाद्यथाशक्त्या च दक्षिणाम् आमर्दकीफलं वक्तुं ब्रह्मा चाऽपि न पार्यते
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे 2.4.12.
तत्र देवाधिदेवेशः परमात्मा सनातनः
ततोऽस्य ब्रह्म जपतो निरगाच्छ्वसितं पुरः
प्रेमाश्रुभरनिर्भिन्नो भूमौ बिंदुः पपात सः
शाखाप्रशाखाबहुलः फलभारेण पीडितः
ब्रह्मा तमसृजत्पूर्वं तत्पश्चाच्चाऽसृजत्प्रजाः
असृजद्भगवान्देवो मानुषांश्च तथामलान्
तां दृष्ट्वा ते महाभागाः परमं विस्मयं गताः
एवं चिंतयतां तेषां वागुवाचाऽशरीरिणी
अस्य वै स्मरणादेव लभेद्गोदानजं फलम्
तस्मात्सर्वप्रयत्नेन सेव्या आमर्दकी सदा 2.4.12.
तस्या मूले स्थितो विष्णुस्तदूर्ध्वं च पितामहः
शाखासु सवितारश्च प्रशाखासु च देवताः
प्रजानां पतयः सर्वे फलेष्वेवं व्यवस्थिताः
अतः सा पूजनीया च सर्वकामार्थसिद्धये नमस्कृत्वा जगन्नाथं पप्रच्छातीव विस्मितः
तथा धात्रीवनं मासे कार्तिके श्रीहरिप्रियम्
कार्तिके मासि यः कुर्यात्तस्य पापं विनश्यति
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके