पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने
भुक्त्वा यमोऽपि भगिनीमलंकारैः समर्चयत् इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत्
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम्
भुंक्ते च भगिनीगेहे भगिनीं पूजयेदपि
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम्
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः
यमो निहंता पितृधर्मराजो वैवस्वतो दंडधरश्च कालः
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत्
भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम्
ततः संतोष्य भगिनीं वस्त्रालंकरणादिभिः
नृपैः कारागृहे ये च स्थापिता मम वासरे 2.4.11.
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा
सर्वाऽभावे माननीया भगिनी काचिदेव हि
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम्
ये भुंजते दुराचारा नरके ते पतंति च
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम्
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ
भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् 2.4.11.
अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे
एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत्
भोजनं कुरुते यस्तु स वैकुंठमवाप्नुयात्
कदा धात्री समुत्पन्ना कथं सा ख्यातिमागता
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी
ऊर्जशुक्लचतुर्दश्यां धात्रीपूजां समाचरेत्
आमर्दकीमहावृक्षः सर्वपापप्रणाशनः
पूजयेत्तत्र देवेशं राधया सहितं हरिम्
सुवर्णरजतैर्वापि फलैरामलकैस्तथा