यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः
धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम्
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः ।। 2.4.11.
तत्राऽपराह्ने कर्तव्यं सर्वथैव यमार्चनम्
प्रत्यहं यमुनाऽऽगत्य यमं संप्रार्थयत्पुरा
अद्यश्वो वा परश्वो वा प्रत्यहं वदते यमः
तदैकदा यमुनया बलात्कारान्निमंत्रितः
नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः
कृताभ्यंगो यमुनया तैलैर्गंधमनोहरैः
ततोऽलंकारकं दत्तं नानावस्त्राणि चंदनम्
पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने
भुक्त्वा यमोऽपि भगिनीमलंकारैः समर्चयत् इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत्
अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम्
भुंक्ते च भगिनीगेहे भगिनीं पूजयेदपि
वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम्
पठेदेतानि नामानि आमध्याह्नं नरोत्तमः
यमो निहंता पितृधर्मराजो वैवस्वतो दंडधरश्च कालः
ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत्
भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम्
ततः संतोष्य भगिनीं वस्त्रालंकरणादिभिः
नृपैः कारागृहे ये च स्थापिता मम वासरे 2.4.11.
विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे
कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत्
तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा
सर्वाऽभावे माननीया भगिनी काचिदेव हि
तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम्
ये भुंजते दुराचारा नरके ते पतंति च
तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः
यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम्
या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ