कृतनित्यक्रियो हृष्टः कुण्डलांगदभूषितः
पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम्
वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः
पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः
विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम् 2.4.11.
हे विप्र ते त्विमां सौम्यां धेनुं संप्रददाम्यहम्
तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ
ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत्
ततः सोदरसंपन्ना भगिनी या भवेन्मुने
भगिनि सुभगे भद्रे त्वदंघ्रिसरसीरुहम्
इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत्
भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद
भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक
स्वसुर्नरो वेश्मनि यो न भुंक्ते यमद्वितीयादिनमत्र लब्ध्वा 2.4.11.
इति पापा रटंतीह ब्रह्महत्यादयस्तथा
शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये
इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती
अग्रजामभिवंद्याऽथ आशिषं च प्रगृह्य च
अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा
एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम्
इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान्
व्रतान्येतानि सर्वाणि दानानि विविधानि च
कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः
भानुजायां नरः स्नात्वा यमलोकं न पश्यति 2.4.11.
कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक
द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः
अत्राऽऽशिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया
अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता
स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम्
महिषासनमारूढो दंडमुद्गरभृत्प्रभुः