बलिराज नमतुभ्यं विरोचनसुत प्रभो
एवं पूजाविधानेन रात्रौ जागरणं ततः
लोकश्चापि गृहस्यांते सपर्यां शुक्लतंदुलैः
बलिमुद्दिश्य वै तत्र कार्यं सर्व च सुव्रत
यदत्र दीयते दानं स्वल्पं वा यदि वा बहु
रात्रौ ये न करिष्यंति तव पूजां बले नराः 2.4.10.
विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः
एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके
यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः
नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः
कौमुदी क्रियते यस्माद्भावं कर्तुं महीतले हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि
रुदिते रोदितं वर्षं प्रहृष्टे तु प्रहर्षितम्
वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके
दीपोत्सवं जनितसर्वजनप्रमोदं कुर्वंति ये शुभतया वलिराजपूजाम्
बलिपूजां विधायैवं पश्चाद्गोक्रीडनं चरेत्
गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः 2.4.10.
प्रतिपद्दर्शसंयोगे क्रीडनं तु गवां मतम्
अलंकार्यास्तदा गावो गोग्रासादिभिरर्चिताः आनीय च ततः पश्चात्कुर्यान्नीराजनाविधिम्
अथ चेत्प्रतिपत्स्वल्पा नारी नीराजनं चरेत्
एवं नीराजनं कृत्वा सर्वपापैः प्रमुच्यते
कुशकाशमयीं कुर्याद्यष्टिकां सुदृढां नवाम्
तामेकतो राजपुत्रा हीनवर्णास्तथैकतः
समसंख्या द्वयोः कार्या सर्वेऽपि बलवत्तराः
उभयोः पृष्ठतः कार्या रेखा तत्कर्षकोपरि
जयचिह्नमिदं राजा निदधीत प्रयत्नतः
तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति
व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम्
कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर
ब्राह्मे मुहूर्ते चोप्थाय द्वितीयायां मुनीश्वर
प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम्