तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदांगणे
आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः
न मांगल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम्
आवर्षं तद्भवेत्तस्य तस्मान्मंगलमाचरेत्
कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च
गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः 2.4.10.
द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः
भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता
भूषणीयास्तदा गावो वर्ज्या वहनदोहनात्
गोवर्द्धन धराऽऽधार गोकुलत्राणकारक
या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता
अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः
इतरेषामन्नपानैर्वाक्यदानेन पंडितान्
वस्त्रैस्तांबूलधूपैश्च पुष्पकर्पूरकुंकुमैः
ग्राम्यान्वृषभदानैश्च सामंतान्नृपतिर्धनैः स्वनामांकैश्च तान्राजा तोषयेत्सज्जनान्पृथक्
यथार्थं तोषयित्वा तु ततो मल्लान्नरांस्तथा 2.4.10.
राज्ञस्तथैव योधांश्च पदातीन्समलंकृतान्
युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत्
ततोऽपराह्नसमये पूर्वस्यां दिशि सुव्रत
कुशकाशमयीं दिव्यां लंबकैर्बहुभिः प्रिये
गावो वृषांश्च महिषान्महिषीर्घटकोत्कटान्
नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत तले तव सुखेनाश्वा गजा गावश्च संतु मे
मार्गपालीतले पुत्र यांति गावो महावृषाः
मार्गपाली समुल्लंघ्य नीरुजः सुखिनो हि ते
पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते
सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् 2.4.10.
संपूर्णं कृष्टवदनं किरीटोत्कटकुण्डलम्
गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत्
कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः
मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम्